Skip to main content

शिव स्तोत्र 2

स्कन्दः -
हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् । 
तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥
भृङ्गी -क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं
निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् ।
आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥

क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं
भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् ।
आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥

मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं
कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥


आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं
धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम्दी
नं पापरतं समस्तविषयेष्वासक्तमन्यायिने
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥


स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ६॥


मायाग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठववनं कामातुरं तस्करम् ।
शैवज्ञानपराङ्गमुखं खलजनव्यापारपारं गतं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ७॥


दुर्मर्यादमतिप्रवृद्धजरसं सद्वृत्तिसेवारिपुं
सद्धर्मादिसमुत्सुके गुरुजने मान्येषु चात्युद्धतम् ।
शिष्टानिष्टकरं क्रियापरिचितं दुष्टप्रतुष्टिपदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ८॥

कर्मादिस्तुतिकारणं परमहानिन्दाकरं निन्दितं
लुण्टाकंपतितं विपर्ययगतस्वान्तं सदा याचकम् ।
वैकल्यापगतं सुकार्यनिचयं सर्वापदां सञ्चयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ९॥


कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महाकातरं दुर्बुद्धिं मदपानमत्सरधियं दुर्वृत्तवृत्त्याश्रयम् । मिथ्याज्ञानिनमात्मात्मकण्टकमलं लोकत्रये निन्दितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १))


दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च सम्पिडितं
चार्वाकं कुमतिं कुशीलमनसं कार्पण्यजन्मस्थलम् ।भार्यापुत्रगृहादिसक्तमनसं गाम्भिर्यधैर्यद्विषं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ११॥

आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं सङ्कल्पैर्बहुभिर्विभिन्नहृदयं द्वैतप्रसक्तं सदा
मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं क्षुद्रकं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १२॥


चित्तक्षोभकरं कलत्रहृदयं शङ्कापदं लोलुपं सारासारविचारहिनमनसं नीचक्रियं नीरसम् । मत्तोन्मत्तनिकृष्टदुष्टचरितं शोच्यं वृथालापिनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १३॥


सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञानकं देवब्राह्मणगोत्रजातितिथिपितृज्ञानात्मकापूजनम् ।विश्वस्तेष्वपकारवञ्चनपरैर्मैत्रीपरं दुर्जयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १४॥


मत्वाऽधर्ममतिं कदर्थनपरं को मत्समोऽस्मिन्भवे
दित्येवं बहुजल्पिनं कुत्रपुषं पापाश्रितं राक्षसम् ।
दृष्ट्वा दृष्टसुखेषणं तव मदात् त्यक्त्वा शिवाराधनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १५॥


दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं दासीमेषखरस्वभावमपटुं संमाननाभाजनम् ।
रिक्तं बालमदीर्घसुत्रिणमलं हृच्छल्यभूतं सतां
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १६॥

मार्जाराखुवृकश्वकुक्कुटकपिक्रोडाभिवृत्तिं सदा तीर्थध्वाङ्क्षमनर्थकम्पिनि हिते सन्तापिनं दुःसहम् ।त्यक्तोपायमपायकाङ्क्षिणमहोऽशुद्धप्रियं चापलं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १७॥

अस्पृश्यं विकलं कर्दयमखिलैः दोषैः स्वकिर्यैतं
पापिष्ठं विषयेषु सक्तमनसं त्याज्यं विवादास्पदम् ।चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १८॥


अत्यावेशनमुत्तमस्थितिमतां सत्याग्निनां नास्तिकं रन्ध्रान्वेषणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः । माहात्म्यश्रवणस्तुतिक्षणविधौ माहेश्वरावत्सलं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १९॥


भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं
सम्भ्रान्तंचपलं विचारविहितव्यापारविद्वेषणम् ।
शम्भो त्वत्पदभक्तिहीनमनसं मूढं समात्मद्विषं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २०॥

दोषावासमतिं प्रमादितमतिं क्षुत्तुड्ज्वराभ्यर्दितं
स्वप्नेऽप्यत्र परोपकाररहितं सर्वाहितं दुर्बलम् ।
लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकेन्द्रियं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २१॥


किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले
भूतो नास्ति विभो भविष्यति पुमान् निर्भाग्यचूडामणिः ।तस्मादीदृशमात्मवञ्चनपरं त्रैलोक्यरक्षामणे
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २२॥


सर्वश्रेष्ठगुणैकभाजनमहो सर्वोत्तमेषूत्तं सङ्ख्येपार्थगुणैकभाजनमलं कष्टातिकष्टप्रियम् ।
श्रीकाश्रीकमतेन्द्रियस्य वशगं निःसंशयं सङ्गिनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २३॥


विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् ।
दृष्ट्वाऽपि स्वकलेवरं कृशमयं तवारिक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २४॥


विष्टाविष्टकुजन्तुनिष्ठमशुचिं स्वाभाव्यतो नश्वरं कुष्ठक्षौण्यविषूचिकाज्वरशिरः शूलादिवेगास्पदम् ।
ज्ञात्वाऽपि स्वशरीरमत्र तु सदा सम्प्रीतियुक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २५॥ 


स्वात्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने
वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समिक्ष्यापि च ।तत्रात्मन्यतिरागिणं त्वयि कृते स्वान्यानुरक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २६॥


देहं क्षालनलेपनादिविधिना संस्पृश्य योग्यार्थव-
त्छिन्नं क्लिन्नमहाव्रणं नवमुखं नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाऽप्यतिरागिणं च नरके नूनं सरागं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २७॥


लोकेऽत्यन्तपवित्रतामुपगतं यत् पञ्चगव्यादिकं
तद्देहोत्थकफास्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः ।
स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २८॥

स्वस्यार्युनिचयस्य मध्यत इमौ नित्यं निशावासरौ जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतः स्वल्पायुषः खण्डकं ।
गच्छत् तावदबुद्धय च स्वहितसत्कर्मण्यरक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २९॥


सर्पिः खण्डपयोमधुप्रभृतिकं त्यक्तवा तृणान्यपि गौः
यद्वत् शाश्वतशाम्भवोक्तमहिमानन्दान्पेक्षं सदा ।
शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३०॥
धूमे कुङ्कुमगन्धकाङ्क्षिणमहो तोयार्थिनं वा मरौ तैलान्वेषिणमश्वचूत्णनिचये मैत्र्यर्थिनं दुर्जने ।
दुर्बुद्धीं त्रिगुणात्मके मलनिधौ क्षेत्रे सुखेप्सुं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३१॥


देवानामपि मारुतस्य च विभो गम्यं न यत् तत्र तुस्वै- 
रं गच्छति मे मनो नहि तदा चित्तं तवाङ्घ्रिद्वये ।
धर्तुस्तच्च नियन्तुमुच्चसुखदो नैर्वासमर्थं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३२॥


वेदैरप्यखिलैर्महेश बहुशो वेदान्तशास्त्रादिभिः
व्यापि चिन्मय एक ईश्वर इति प्रोक्ते त्वयि त्वत्पदे ।
चित्तं धर्तुमशक्तमात्मवचनैः व्यापारहीनं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३३॥ 


ज्ञानाज्ञानदयादयाशमदमासंमोहमोहानति ख्यात्यख्यातिभयाभयासुखसुखाहिंसामनस्तुष्टयः ।
भूतानाम भव दाग्य यज्ञ विधिना नित्यं भवन्ति ध्रुवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३४॥


भावाभावभवाभवामृतविषसत्सत्समस्ता क्रिया
दिव्यत्वं च निरामयत्वनिखिलाभीष्टार्थसम्पत्तयः ।
भूतानां भवदिच्छयैव भगवन् जायन्त एवानिशं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३५॥


योगैश्वर्यसमस्तदानपरता श्रद्धात्मभक्तिर्दृढा
वैराग्यं परमं महेश परमे धर्मे मतिश्चारुता ।
भूतानां भवतः प्रसादत इमे जायन्त एव ध्रुवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३६॥


नालं चालयितुं तृणं च पवनः शम्भो त्वदाज्ञां विना
दग्धुं तं न समर्थ एव हुतभुक् शक्रोऽपि नो व्रजतः
शक्तः छेत्तुमपि प्रभो जगदिदं सर्वं त्वदाज्ञावशं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ 


पितः कित्तं चेतयते मनश्च सकलं सङ्कल्पयत्याज्ञया सर्वार्थानभिमन्यते ननु महादेवाज्ञयाऽहङ्कृतिः ।
स्वे स्वे त्विन्द्रियवर्ग एव विषयेच्छास्ते तवैवाज्ञया
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३८॥

ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः
संहर्ता जगतं श्रियं जनयति श्रीयुग्मविद्यां पुमान् ।
गायत्री च तवाज्ञयैव नरकात् सन्तारयत्याश्रिता-
 न्कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३९॥


वायुर्वाति तवाज्ञया शशिरवी नित्यं जगद्भासकौ
आहारं पचते च कुक्षिसदने वह्निः सद प्राणिनाम् ।
देवानां वहतीव हव्यमऽपि यः पाकं करोत्यत्ति यः
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४०॥


भूतान्याप इहाज्ञयैव भवतः सञ्जीवयन्ति प्रभो
वाचावाग् विपुलं ददाति जगतां यत्तेखिलं पुंनभः ।भूतानामवकाशदं त्रिजगतां शीतोष्णशङ्कास्पदः
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४१॥


सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः
ब्रह्माण्डानि इहात्मवस्तुनि परे सन्धारकाः सन्ततम् ।त्रैलोक्यानुगतानपीह सुबहून्याज्ञावशादेव ते
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४२॥


हर्तासौ महदादिकं प्रकृतिरप्याज्ञावशा ते विभो
कालश्च प्रकृतिः पुरुः पुरुष इत्येतत् त्रयं सर्वदा ।
शम्भो देव भव त्वमेव च तथा भूतं भविष्यत् भवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४३॥


त्वयोपरि तमो घृतं तव महाब्धिलीलार्थमेवत्वयो-
न्नतिप्रेरणयैव ते तच्च विषयेष्वत्र प्रवृतं जगत् ।
तापश्चापि रवेः समस्तजगतां दुःखार्तिहारिन प्रोभो
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४४॥


बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो भवेः
त्वं पाशैर्भवबन्धमेतदखिलं कर्मच्छलेनापि च ।
शम्भो त्वां शरणागतं करुणया त्वं शङ्करो येन वा
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४५॥


महामुर्ते महादेव त्वन्मूर्तौ सर्वदेवताः ।
यथा बीजाङ्कुरोत्पत्तिः तथेदं त्वय्यवस्थितम् ॥ ४६॥


जगज्जालमिदं शम्भो ससुरासुरमानुषम् ।
नित्य निर्माय नीरूप धुरन्धर सुनिर्मलम् ॥ ४७॥


मनोवाचां सुदुरात्मन् परमेश नमोस्तु ते ।
त्वत्तः सर्वं त्वया सर्वं त्वं सर्वं सर्वगोऽसि च ॥ ४८॥


नमस्ते देवदेवेश सर्वकारणकारण
कर्तव्य च दया दिने करुणाकर शङ्कर ॥ ४९॥


सर्वापराधं मे देव क्षमस्व जगतां पते ।
तव रूपं जगच्छम्भो अष्टमूर्तिरनीश्वरः ॥ ५०॥


पिता त्वमेव भगवन् माता साक्षादुमा यतः ।
क्षमस्वागो ममेद नीं बहुनोक्तेन किं प्रभो ॥
त्वयि भक्तिं महादेव दृढां देहि मृडाव्यय ॥ ५२॥
                               स्कन्दः -
इत्युक्तां मुनिवचनस्तुतिं महेशः
श्रुत्वा चागकुमारिकायुतो हरस्तम् ।
दत्वा रूपमपारदिव्यगणपस्येन्द्राधिपत्यं
ददौतेनैवोत्तमसद्द्विजेन विहरत् कैलासमौलौ शिवः ॥ ५३॥


यस्त्त्वेतच्छृणुयात पठेन शम्भोः
स्तव्यानां परमः स्तवोऽयमीशतुष्ट्यै ।
सोऽन्ते चाप्यचिरेण भृङ्गितुल्यः
पादाब्जे परमेश्वरस्य युक्तभृङ्गः ॥ ५४॥
                    

              आचार्य अखिलेंद्र मिश्र
           मो. न. - 7753056270

Comments

Popular posts from this blog

गणेश पंचरत्न स्तोत्र

  श्री गणेश पंच रत्न स्तोत्र! मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥ महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

अर्ध नारीश्वर स्तोत्र

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ।। अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥               प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥ एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥     ...