Skip to main content

Mahisasur mardini stotra

अयि गिरिनन्दिनि नन्दितमेदिनि विश्व-विनोदिनि नन्दनुते गिरिवर विन्ध्य-शिरो‌உधि-निवासिनि विष्णु-विलासिनि जिष्णुनुते । भगवति हे शितिकण्ठ-कुटुम्बिणि भूरिकुटुम्बिणि भूरिकृते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 1 ॥ सुरवर-हर्षिणि दुर्धर-धर्षिणि दुर्मुख-मर्षिणि हर्षरते त्रिभुवन-पोषिणि शङ्कर-तोषिणि कल्मष-मोषिणि घोषरते । दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिन्धुसुते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 2 ॥ अयि जगदम्ब मदम्ब कदम्बवन-प्रियवासिनि हासरते शिखरि-शिरोमणि तुङ-हिमालय-शृङ्गनिजालय-मध्यगते । मधुमधुरे मधु-कैतभ-गञ्जिनि कैतभ-भञ्जिनि रासरते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 3 ॥ अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते रिपु-गज-गण्ड-विदारण-चण्डपराक्रम-शौण्ड-मृगाधिपते । निज-भुजदण्ड-निपाटित-चण्ड-निपाटित-मुण्ड-भटाधिपते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 4 ॥ अयि रणदुर्मद-शत्रु-वधोदित-दुर्धर-निर्जर-शक्ति-भृते चतुर-विचार-धुरीण-महाशय-दूत-कृत-प्रमथाधिपते । दुरित-दुरीह-दुराशय-दुर्मति-दानव-दूत-कृतान्तमते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 5 ॥ अयि निज हुङ्कृतिमात्र-निराकृत-धूम्रविलोचन-धूम्रशते समर-विशोषित-शोणितबीज-समुद्भवशोणित-बीज-लते । शिव-शिव-शुम्भनिशुम्भ-महाहव-तर्पित-भूतपिशाच-पते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 6 ॥ धनुरनुसङ्गरण-क्षण-सङ्ग-परिस्फुरदङ्ग-नटत्कटके कनक-पिशङ्ग-पृषत्क-निषङ्ग-रसद्भट-शृङ्ग-हतावटुके । कृत-चतुरङ्ग-बलक्षिति-रङ्ग-घटद्-बहुरङ्ग-रटद्-बटुके जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 7 ॥ अयि शरणागत-वैरिवधू-वरवीरवराभय-दायिकरे त्रिभुवनमस्तक-शूल-विरोधि-शिरोधि-कृता‌உमल-शूलकरे । दुमि-दुमि-तामर-दुन्दुभि-नाद-महो-मुखरीकृत-दिङ्निकरे जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 8 ॥ सुरललना-ततथेयि-तथेयि-तथाभिनयोदर-नृत्य-रते हासविलास-हुलास-मयिप्रण-तार्तजनेमित-प्रेमभरे । धिमिकिट-धिक्कट-धिक्कट-धिमिध्वनि-घोरमृदङ्ग-निनादरते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 9 ॥ जय-जय-जप्य-जये-जय-शब्द-परस्तुति-तत्पर-विश्वनुते झणझण-झिञ्झिमि-झिङ्कृत-नूपुर-शिञ्जित-मोहितभूतपते । नटित-नटार्ध-नटीनट-नायक-नाटकनाटित-नाट्यरते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 10 ॥ अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते श्रितरजनीरज-नीरज-नीरजनी-रजनीकर-वक्त्रवृते । सुनयनविभ्रम-रभ्र-मर-भ्रमर-भ्रम-रभ्रमराधिपते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 11 ॥ महित-महाहव-मल्लमतल्लिक-मल्लित-रल्लक-मल्ल-रते विरचितवल्लिक-पल्लिक-मल्लिक-झिल्लिक-भिल्लिक-वर्गवृते । सित-कृतफुल्ल-समुल्लसिता‌உरुण-तल्लज-पल्लव-सल्ललिते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 12 ॥ अविरल-गण्डगलन्-मद-मेदुर-मत्त-मतङ्गजराज-पते त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते । अयि सुदतीजन-लालस-मानस-मोहन-मन्मधराज-सुते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 13 ॥ कमलदलामल-कोमल-कान्ति-कलाकलिता‌உमल-भालतले सकल-विलासकला-निलयक्रम-केलिकलत्-कलहंसकुले । अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्-वकुलालिकुले जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 14 ॥ कर-मुरली-रव-वीजित-कूजित-लज्जित-कोकिल-मञ्जुरुते मिलित-मिलिन्द-मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते । निजगणभूत-महाशबरीगण-रङ्गण-सम्भृत-केलितते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 15 ॥ कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे प्रणतसुरासुर-मौलिमणिस्फुरद्-अंशुलसन्-नखसान्द्ररुचे । जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 16 ॥ विजित-सहस्रकरैक-सहस्रकरैक-सहस्रकरैकनुते कृत-सुरतारक-सङ्गर-तारक सङ्गर-तारकसूनु-सुते । सुरथ-समाधि-समान-समाधि-समाधिसमाधि-सुजात-रते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 17 ॥ पदकमलं करुणानिलये वरिवस्यति यो‌உनुदिनं न शिवे अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् । तव पदमेव परम्पद-मित्यनुशीलयतो मम किं न शिवे जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 18 ॥ कनकलसत्कल-सिन्धुजलैरनुषिञ्जति ते गुणरङ्गभुवं भजति स किं नु शचीकुचकुम्भत-तटीपरि-रम्भ-सुखानुभवम् । तव चरणं शरणं करवाणि नतामरवाणि निवाशि शिवं जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 19 ॥ तव विमले‌உन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते किमु पुरुहूत-पुरीन्दुमुखी-सुमुखीभिरसौ-विमुखी-क्रियते । मम तु मतं शिवनाम-धने भवती-कृपया किमुत क्रियते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 20 ॥ अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे अयि जगतो जननी कृपयासि यथासि तथानुमितासि रमे । यदुचितमत्र भवत्युररी कुरुता-दुरुतापमपा-कुरुते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 21 ॥

Comments

Popular posts from this blog

गणेश पंचरत्न स्तोत्र

  श्री गणेश पंच रत्न स्तोत्र! मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥ महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

शिव स्तोत्र 2

स्कन्दः - हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।  तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥ भृङ्गी -क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् । आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥ क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥ आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम्दी नं पापरतं समस्तविषयेष्वासक्तमन्यायिने कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पद...

अर्ध नारीश्वर स्तोत्र

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ।। अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥               प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥ एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥     ...