Skip to main content

कपालीश्वराष्टकं

कपालि-नामधेयकं कलापि-पुर्यधीश्वरं
कलाधरार्ध-शेखरं करीन्द्र-चर्म-भूषितम् ।
कृपा-रसार्द्र-लोचनं कुलाचल-प्रपूजितंव् 
कुबेर-मित्रमूर्जितं गणेश-पूजितं भजे ॥ १॥
भजे भुजङ्ग-भूषणं भवाब्धि-भीति-भञ्जनं
भवोद्भवं भयापहं सुखप्रदं सुरेश्वरम् ।
रवीन्दु-वह्नि-लोचनं रमा-धवार्चितं वरं
ह्युमा-धवं सुमाधवी-सुभूषिअतं महागुरुम् ॥ २॥
गुरुं गिरीन्द्र-धन्विनं गुह-प्रियं गुहाशयं
गिरि-प्रियं नग-प्रिया-समन्वितं वर-प्रदम् ।
सुर-प्रियं रवि-प्रभं सुरेन्द्र-पूजितं प्रभुं
नरेन्द्र-पीठ-दायकं नमाम्यहं महेश्वरम् ॥ ३॥
महेश्वरं सुरेश्वरं धनेश्वर-प्रियेश्वरं
वनेश्वरं विशुद्ध-चित्त वासिनं परात्परम् ।
प्रमत्तवेष-धारिणं प्रकृष्ट-चित्स्वरूपिणं
विरुद्ध-कर्म-कारिणं सुशिक्षकं स्मराम्यहम् ॥ ४॥
स्मराम्यहं स्मरान्तकं मुरारि-सेविताङ्घ्रिकं
परारि-नाशन-क्षमं पुरारि रूपिणं शुभम् ।
स्पुअरत्-सहस्र-भानु-तुल्य तेजसं महौजसं
सु-चण्डिकेश पूजितं मृडं समाश्रये सदा ॥ ५॥
सदा प्रहृष्ट-रूपिणं सतां प्रहर्ष-वर्षिणं
भिदा विनाश-कारण प्रमाणगोचरं परम् ।
मुदा प्रवृत्त-नर्तनं जगत्पवित्र-कीर्तनं
निदानमेकमद्भुतं नितान्तमाश्रयेह्यहम् ॥ ६॥
अहं-ममादि दूषणं महेन्द्र-रत्न-भूषणं
महा-वृषेन्द्र-वाहनं ह्यहीन्द्र-भूषणान्वितम् ।
वृषाकपि-स्वरूपिणं मृषा-पदार्थ-धारिणं
मृकण्डुसूनु संस्तुतं ह्यभीतिदं नमामि तम् ॥ ७॥
नमामि तं महामतिं नतेष्टदान-चक्षणं
नतार्ति-भञ्जनोद्यतं नगेन्द्र-वासिनं विभुम् ।
अगेन्द्रजा समन्वितं मृगेन्द्र विक्रमान्वितं
खगेन्द्र-वाहन-प्रियं सुखस्वरूपमव्ययम् ॥ ८॥
सुकल्पकाम्बिका-पति-प्रियन्त्विदं मनोहरं
सुगूडकाञ्चिरामकृष्ण योगिशिष्य संस्तुतम् ।
महाप्रदोष पुण्यकाल कीर्तनात्शुभप्रदं
भजामहे सदामुदा कपालि मङ्गळाष्टकम् ॥ ९॥
कपालि तुष्टिदायकं महापदि प्रपालकं
त्वभीष्ट-सिद्धि-दायकं विशिष्ट-मङ्गलाष्टकम् ।
पठेत्सुभक्तितः कपालि सन्निधौ क्रमात्
अवाप्य सर्वमायुरादि मोदते सुमङ्गलम् ॥ १०॥
              ॥श्री कपालीश्वराष्टकं सम्पूर्णम् ॥

Comments

Popular posts from this blog

गणेश पंचरत्न स्तोत्र

  श्री गणेश पंच रत्न स्तोत्र! मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥ महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

शिव स्तोत्र 2

स्कन्दः - हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।  तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥ भृङ्गी -क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् । आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥ क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥ आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम्दी नं पापरतं समस्तविषयेष्वासक्तमन्यायिने कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पद...

अर्ध नारीश्वर स्तोत्र

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ।। अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥               प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥ एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥     ...