Skip to main content

Nateswar slok

प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् । अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥ १॥ आजानुबाहुमरविन्ददलायताक्ष- मानीलदेहमसुरद्विषमब्जवक्त्रम् । अम्बोधिजाधिपवाङ्मनसावगम्यं गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥ २॥ यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः । यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥ ३॥ नृत्यं त्वदीयमवलोक्य नटेश पूर्व- मानन्दतुन्दिलहृदो मुनयो बभूवुः । तद्दर्शयाद्य मम मोदमुपैमि चाहं निष्पक्षपात भवतस्सम एव सर्वः ॥ ४॥ नन्दादयोऽपि नटराज पुरालभन्त भक्त्या पदाम्बुजयुगे तव बन्धमोकम् । देयाद्य सा न किमु मे करुणाम्बुराशे को वा मया व्यरचि तं वद तेऽपराधः ॥ ५/ कस्मान्नटेश कुरुषे न कृपां मयि त्वं किं वा त्वया न विदितो मम दीनभावः । जानाति नो यदि भवान्मम दीनतां तत् श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥ ६॥ संसृत्युदन्वति नटेश सदाऽप्यगाधे मग्नं न मां चिरमुदासितुमर्हसि त्वम् । यद्यप्यहं तव चकार बहून् हि मन्तून् शम्भो तवाऽपि न हि तान् गणयान्तरङ्गे ॥ ७॥ दुःखाम्बुदौ पतितमीश समुद्धरैनं नोचेच्छरण्य न हि मे क्षतिरस्ति कापि । भूयान्निमज्जनमकीर्तिपयोनिधौ ते सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥ ८। । पादाम्बुजातयुगलं तव यो भजेत हन्ताधिरोहति हि तस्य ललाटमग्निः । वक्षस्थलं विषधरो विषमुत्तमाङ्गं कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥ ९॥ त्वामामनन्ति नटनाथ पदाब्जभाजां सर्वार्थदायिनमहो निखिलाश्च वेदाः । त्वं चोरयस्यहह शोकमशेषमेषां अन्यादृशी विलसतीश वदान्यता ते ॥ १०॥ सर्वेश्वरोऽपि नटराज दिगम्बरस्त्वं वाहो वृषस्तव गिरौ शयनं पिशाचाः । मित्राणि भूषणमहो भुजगश्च भस्म भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥ ११॥ तातो भवान्मम तनूभव एष तेऽहं सर्वेश्वरोऽस्यहमपीश नितान्तदीनः । एतादृशं न किल मां परिरक्षसि त्वं प्रेमात्मजेष्वसदृशं भवतो विभासि ॥ १२॥ श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं श्रीरामशर्म-कलितां नवरत्नमालां । सन्तो विलोक्य परिहृत्य समस्त-दोषान् गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥ १३॥ ॥ श्रीनटेश नवरत्नमालिका समाप्ता ॥

Comments

Popular posts from this blog

गणेश पंचरत्न स्तोत्र

  श्री गणेश पंच रत्न स्तोत्र! मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥ महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

शिव स्तोत्र 2

स्कन्दः - हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।  तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥ भृङ्गी -क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् । आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥ क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥ आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम्दी नं पापरतं समस्तविषयेष्वासक्तमन्यायिने कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पद...

श्री हरि स्तुति

                ।।श्री हरि स्तुति ।।  शान्ताकारं भुजगशयनं पद्मनाभं सुरेशहम्। विश्वाधारं गगनसदृशं मेघवर्ण शुभांगम्।।  लक्ष्मीकातं कमलनयनं योगिभिध्र्यानगम्यं।  वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्।।  जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता।  गो द्विज हितकारी जय असुरारी सिधुंसुता प्रिय कंता।। पालन सुर धरनी अद्भुत करनी मरम न जानइ कोई।  जो सहज कृपाला दीनदयाला करउ अनुग्रह सोई।।  जय जय अबिनासी सब घट बासी ब्यापक परमानंदा। अबिगत गोतीतं चरित पुनीतं मायारहित मुकुंदा।। जेहि लागि बिरागी अति अनुरागी बिगतमोह मुनिबृंदा।  निसि बासर ध्यावहिं गुन गन गावहिं जयति सच्चिदानंदा।। जेहिं सृष्टि उपाई त्रिबिध बनाई संग सहाय न दूजा। सो करउ अघारी चिंत हमारी जानिअ भगति न पूजा।। जो भव भय भंजन मुनि मन रंजन गंजन बिपति बरूथा।  मन बच क्रम बानी छाड़ि सयानी सरन सकल सुर जूथा।। सारद श्रुति सेषा रिषय असेषा जा कहुँ कोउ नहि जाना।   जेहि दीन पिआरे बेद पुकारे द्रवउ सो श्रीभगवाना।।   भव बारिधि मंदर सब बिधि सुंदर गुनमंदिर सुखपुंजा...