Skip to main content

Nateswar slok

प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् । अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥ १॥ आजानुबाहुमरविन्ददलायताक्ष- मानीलदेहमसुरद्विषमब्जवक्त्रम् । अम्बोधिजाधिपवाङ्मनसावगम्यं गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥ २॥ यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः । यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥ ३॥ नृत्यं त्वदीयमवलोक्य नटेश पूर्व- मानन्दतुन्दिलहृदो मुनयो बभूवुः । तद्दर्शयाद्य मम मोदमुपैमि चाहं निष्पक्षपात भवतस्सम एव सर्वः ॥ ४॥ नन्दादयोऽपि नटराज पुरालभन्त भक्त्या पदाम्बुजयुगे तव बन्धमोकम् । देयाद्य सा न किमु मे करुणाम्बुराशे को वा मया व्यरचि तं वद तेऽपराधः ॥ ५/ कस्मान्नटेश कुरुषे न कृपां मयि त्वं किं वा त्वया न विदितो मम दीनभावः । जानाति नो यदि भवान्मम दीनतां तत् श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥ ६॥ संसृत्युदन्वति नटेश सदाऽप्यगाधे मग्नं न मां चिरमुदासितुमर्हसि त्वम् । यद्यप्यहं तव चकार बहून् हि मन्तून् शम्भो तवाऽपि न हि तान् गणयान्तरङ्गे ॥ ७॥ दुःखाम्बुदौ पतितमीश समुद्धरैनं नोचेच्छरण्य न हि मे क्षतिरस्ति कापि । भूयान्निमज्जनमकीर्तिपयोनिधौ ते सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥ ८। । पादाम्बुजातयुगलं तव यो भजेत हन्ताधिरोहति हि तस्य ललाटमग्निः । वक्षस्थलं विषधरो विषमुत्तमाङ्गं कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥ ९॥ त्वामामनन्ति नटनाथ पदाब्जभाजां सर्वार्थदायिनमहो निखिलाश्च वेदाः । त्वं चोरयस्यहह शोकमशेषमेषां अन्यादृशी विलसतीश वदान्यता ते ॥ १०॥ सर्वेश्वरोऽपि नटराज दिगम्बरस्त्वं वाहो वृषस्तव गिरौ शयनं पिशाचाः । मित्राणि भूषणमहो भुजगश्च भस्म भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥ ११॥ तातो भवान्मम तनूभव एष तेऽहं सर्वेश्वरोऽस्यहमपीश नितान्तदीनः । एतादृशं न किल मां परिरक्षसि त्वं प्रेमात्मजेष्वसदृशं भवतो विभासि ॥ १२॥ श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं श्रीरामशर्म-कलितां नवरत्नमालां । सन्तो विलोक्य परिहृत्य समस्त-दोषान् गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥ १३॥ ॥ श्रीनटेश नवरत्नमालिका समाप्ता ॥

Comments

Popular posts from this blog

गणेश पंचरत्न स्तोत्र

  श्री गणेश पंच रत्न स्तोत्र! मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥ महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

शिव स्तोत्र 2

स्कन्दः - हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।  तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥ भृङ्गी -क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् । आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥ क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥ आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम्दी नं पापरतं समस्तविषयेष्वासक्तमन्यायिने कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पद...

अर्ध नारीश्वर स्तोत्र

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ।। अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥               प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥ एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥     ...