- Get link
- X
- Other Apps
उमामहेश्वर स्तोत्रम :
नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्ट वपुर्धराभ्याम ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम ।
नारायणेनार्चितपादुकाभ्यां
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम ॥
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम ।
विभूतिपाटिरविलेपनाभ्यां
विभूतिपाटिरविलेपनाभ्यां
नमो नमःशङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां परमौषधाभ्याम
पञ्चाशरी पञ्जररञ्चिताभ्याम ।
प्रपञ्च सृष्टिस्थिति संहृताभ्यां
प्रपञ्च सृष्टिस्थिति संहृताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यामतिसुन्दराभ्याम
अत्यन्तमासक्तहृदम्बुजाभ्याम ।
अशेषलोकैकहितङ्कराभ्यां
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम ।
कैलाशशैलस्थितदेवताभ्यां
कैलाशशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यामशुभापहाभ्याम
अशेषलोकैकविशेषिताभ्याम ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम ।
राका शशाङ्काभ मुखाम्बुजाभ्यां
राका शशाङ्काभ मुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्याम च विवर्जिताभ्याम ।
जनार्दनाब्जोद्भवपूजिताभ्यां
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां विषमेशणाभ्यां बिल्वच्च्हदामल्लिकदामभृद्भ्याम ।
शोभावती शान्तवतीश्वराभ्यां
शोभावती शान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्यां ॥
नमः शिवाभ्यां पशुपालकाभ्याम
जगत्त्रयीरशण बद्दहृद्भ्याम ।
समस्त देवासुरपूजिताभ्याम
समस्त देवासुरपूजिताभ्याम
नमो नमः शङ्करपार्वतीभ्यां ॥
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्व्सौभाग्य फलानि भुङ्क्ते
स सर्व्सौभाग्य फलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति ॥
॥ इति श्री शङ्कराचार्य कृत उमामहेश्वर स्तोत्रम ॥
Comments
Post a Comment